Bhagwat puran skandh 5 chapter 9( भागवत पुराण पञ्चमः स्कन्ध:नवमोऽध्यायः भरतजीका ब्राह्मणकुलमें जन्म)
Bhagwat puran skandh 5 chapter 9( भागवत पुराण पञ्चमः स्कन्ध:नवमोऽध्यायः भरतजीका ब्राह्मणकुलमें जन्म) संस्कृत श्लोक:- श्रीशुक उवाच अथ कस्यचिद् द्विजवरस्याङ्गिरः प्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोषतितिक्षा- प्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मसदृश-श्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम् ।।१।। यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः ।।२।। तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः कर्मबन्धऽ विध्वंसन- मनसा विदधदात्मनः श्रवणस्मरणगुणविवरणचरणारविन्दयुगलं प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानु-स्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्त जडान्ध-बधिरस्वरूपेण दर्शयामास लोकस्य … Read more